वैदिकयुगस्य आधुनिकयुगस्य च शिक्षयोः तुलनात्मकमेकम् अध्ययनम्
Author: Sourav Seth
वैदिककालस्य शिक्षाव्यवस्था मुख्यतः गुरुकुलाश्रमाधिष्ठिता आसीत्, यत्र विद्यार्थिभिः गुरुगृहें स्थित्वा एव विद्यार्जन करणीयम् इति। तस्मिन् काले छात्राः गुरोः उपदेशं शिरसा गृहीत्वा कठोरतया सदाचारं कृत्वा च विद्यां प्राप्नुवन्ति स्म। आधुनिकशिक्षाव्यवस्थायां विशेषतया जातीयशिक्षानीतिमनुसृत्य विद्यार्थिनः गृहात् विद्यालयं प्रविश्य सारल्येन उच्चशिक्षां प्राप्तुं शक्यन्ते। अनेन शोधपत्रेण वैदिकयुगस्य आधुनिकयुगस्य च शिक्षयोः मध्ये कीदृशं वैसादृश्यं दृश्यते तस्मिन् विषये मया सविस्तारेण प्रदीयते। अत्र शिक्षायाः पद्धतिः, शिक्षकाणां प्रकाराः, शैक्षणिकस्य संस्थाः, उच्चशिक्षायाः विकासः, अनुसन्धानस्य उत्क्रान्तिः च इत्यादयः प्रमुखाः विषयाः अस्मिन् शोधपत्रे सरलतया मया उपस्थाप्यते।
Keywords: उपनयनसंस्कारः, विद्यारम्भः, ब्रह्मचारिन्, श्रमणः, समावर्तनम्, यौगनास्तिकः, सङ्गमः, चरकः, SWAYAM PRABHA, E-विद्वान्
Keywords: उपनयनसंस्कारः, विद्यारम्भः, ब्रह्मचारिन्, श्रमणः, समावर्तनम्, यौगनास्तिकः, सङ्गमः, चरकः, SWAYAM PRABHA, E-विद्वान्

