महाभारतस्य राजधर्मानुशासनपर्वणि निहितधर्मशास्त्रीयतत्त्वानि
Author: श्रेयान् ब्यानार्जी
\\\\\\\"वेदोऽखिलधर्ममूलमि\\\\\\\" ति मनुवचनाद्. वेद एव धर्ममूलम्। अथ धर्मो नाम किम्? उच्यते \\\\\\\"धारणाद् धर्म\\\\\\\" इति। घृधातोर्मनिन्प्रत्ययेन धर्मशब्दोऽयं निष्पद्यते। अर्थात्, यद् प्रियते स एव धर्मः। वेदे यज्ञ एवं मुख्यधर्मत्वेन विवेचितः । किन्तु, अस्माकमिव साधारणमनुष्याणां कृते कर्तव्यकर्म (Duty) एव मुख्यधर्मरूपेण परिगणितम्। महाभारतेऽपि धर्म इत्यनेन मनुष्याणां कर्तव्यमेव गण्यते । कोषग्रन्थेष्वपि धर्मशब्दस्य विविधव्याख्याने प्राप्यते। वृहदारण्यकोपनिषदि उपादेशार्थे धर्मशब्दोऽयं प्रयुक्तः । स्मृतिशास्त्रे धर्म इत्यनेन सगुणा एवोच्यन्ते। मनुना चोक्तम्- \\\\\\\"धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्\\\\\\\" ।। इति । मनुसंहिताया भाष्यकारमेधातिथिना वर्णाश्रमवर्णाश्रमनैमित्तिकगुणभेदैर्धर्मस्य स्वरूपपञ्चकमुक्तम्। महर्षियाज्ञवल्क्वेनापि धर्मशब्दः सदाचारार्थे गृहीतः । उक्तञ्च- \\\\\\\"श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम्।।\\\\\\\" इति। मनुसंहितायां विद्वज्जनस्य विवेचनाप्रसूतं कर्मैव धर्मत्वेनोच्यते- \\\\\\\"विद्वन्द्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ।।\\\\\\\" इति। पूर्वमीमांसायां महर्षिजैमिनिना धर्मलक्षणप्रसङ्गे उक्तम्-\\\\\\\"चोदनालक्षणोऽर्थो धर्मः\\\\\\\" इति। अनुशासनपर्वणि \\\\\\\"अहिंसा एव परमो धर्मः\\\\\\\"-इत्युक्तम् । एवं विविधभावेन विविधस्मृतिशास्त्रेषु धर्मलक्षणं व्याख्यातम्। परिशेषे उच्यते यत्, धर्मशब्दस्यास्य आङ्गलप्रतिशब्दो हि \\\\\\\"Religion\\\\\\\"- इति। अनेन धर्मशब्दस्यार्थो भवति पूजा उपासना वा। भारतीयपरम्परायां पूजा उपासना वा धर्मस्याङ्गभूता। किन्तु, धर्मशब्देनैकः पवित्रजीवनबोध एव वुध्यते। ततो धर्मशब्दस्य प्रतिशब्दत्वेन \\\\\\\"Religion\\\\\\\"- इतिं शब्दो न यथार्थम् । महाभारते व्यासप्रणीतमेकं महाकाव्यम्। महाकाव्ये सत्यपि धर्मशास्खत्वेनापि इदं गण्यते। यतो हि धर्मस्य बहुनिगूढतत्त्वानि अत्र निहितानि। महाभारतस्यादिपर्वणि व्यासदेवो धर्मशास्त्रकारत्वेन वर्णितः- \\\\\\\"अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्। कामशास्त्रमिदं प्रोक्तं व्यासेनामित्वुद्धिना\\\\\\\" ।। इति। महाभारतस्य राजधर्मानुशासनपर्वणि विविधधर्मशास्त्रीयविषया आलोचिताः। तत्र राज्ञः कृते दानकर्म, यज्ञकर्म, ब्राह्मणादिप्रजारक्षणोपायाः इत्येते सर्वे आलोचिताः, यत्र धर्मस्य गहनप्रभावा विद्यन्ते। यथा दानं कथं कुर्यादिति विषये भीष्मेणोक्तं यत्. \\\\\\\"अथ चेत् प्रतिगृह्णीयुर्दद्यादहरहर्नुपः । श्रद्धामास्थाय परमां पावनं होतदुत्तमम्\\\\\\\" ।। इति । अपिचोक्तं तत्र- \\\\\\\"अजुगुप्सांश्च विज्ञाय ब्राह्मणान् वृत्तिकर्शितान् । उपच्छत्रं प्रकाशं वा वृत्त्या तान् प्रतिपालयेत्\\\\\\\" ।। इति। एवं महाभारतस्य राजधर्मानुशासनपर्वणि अनेकानि धर्मशास्त्रीयतत्त्वानि निहितानि सन्ति। तेषां मुख्यानि कानिचन तत्त्वानि इमानिः धर्मस्य महत्त्वम् दानस्य महिमा आचारः राजधर्मः आश्रमधर्माः वर्णधर्माः एतानि केवलं कानिचन मुख्यतत्त्वानि सन्ति। एतदाधारेणैव राजधर्मानुशासनपर्वणि धर्मशास्त्रीयतत्त्वानि विस्तरेण परं वक्ष्यन्ते । कुञ्चिकापदानिः राजधर्मानुशासनपर्व, धर्मस्य महत्त्वम्, दानमहिमा, आचारः, राजधर्माः, आश्रमधर्माः, वर्णधर्माः

