भारतीयसंस्कृतेर्विकासे क्रीडापरम्परा
Author: श्वेता घटक
क्रीडापरम्परा भारतीयसंस्कृतेस्तथा भारतीयज्ञानपरम्परायाः अविभाज्यमङ्गं वर्तते। एषा परम्परा शारीरिकस्वास्थ्यं, मानसिकस्थिति, सामाजिकसद्भावनां च वर्धयति। क्रीडामाध्यमेन अनुशासनं, सहयोगः, नेतृत्वगुणाः च विकसन्ति। अद्यत्वे भारतसर्वकारः क्रीडाप्रोत्साहनाय विविधान् कार्यक्रमान् आयोजयति। ओलम्पिक्-क्रीडासु भारतस्य प्रदर्शने क्रमशः उन्नतं भवति। एवं क्रीडापरम्परा भारतीयसंस्कृतेः गौरवं वर्धयति, राष्ट्रीयैकतां पोषयति भारतीयज्ञानपरम्परां च अग्रे नयति। प्राचीनकालादेव भारते विविधाः क्रीडाः प्रचलिताः आसन्। एताः क्रीडीः न केवलं मनोरञ्जनस्य साधनानि अपि तु शारीरिकमानसिकविकासस्य उपायाः अपि आसन्। वैदिककाले युद्धकौशलविकासाय रथारोहणम्, धनुर्विद्या, अश्वारोहणे च प्रमुखाः क्रीडाः आसन्। महाभारते युधिष्ठिरस्य द्यूतक्रीडायाः वर्णनं दृश्यते। रामायणे लवकुशयोः मल्लयुद्धस्य उल्लेखोऽपि वर्तते। कौटिल्यस्य अर्थशास्त्रे जलक्रीडा, पाशकक्रीडा इत्यादीनां क्रीडानां विवरणं प्राप्यते। बौद्धग्रन्थेषु अपि विविधक्रीडानां उल्लेखः दृश्यते। मध्यकाले कर-बधीक्रीडा (kabaddi), खो-खो क्रीडा (kho-kho), गिल्लीदण्डक्रीडा (Gilli Danda) इत्यादयः ग्रामीणक्क्रीडाः लोकप्रियाः अभवन्। राजवंशेषु मल्लयुद्धादिक्रीडाः प्रचलिताः आसन् । आधुनिककाले वल्लकन्दुकक्रीडा (Cricket), बलकन्दुकक्रीडा (Football), यष्टिकन्दुकक्रीडा (Hockey) इत्यादयः पाश्चात्यक्रीडाः अपि भारते लोकप्रियाः जाताः। परन्तु योगासनानि, प्राणायामः, सूर्यनमस्कारः इत्यादयः प्राचीनाः व्यायामप्रकाराः अद्यापि महत्त्वपूर्णाः सन्ति। एताः क्रीडाः न केवलं मनोरञ्जनस्य साधनमासन्, अपि तु संस्कृतेः विकासस्य, सामाजिकसम्बन्धस्थापनस्य, नैतिकमूल्यानां प्रसारस्य च माध्यममपि। एताः क्रीडाः भारतीयसमाजस्य विभिन्त्रपक्षान् प्रतिबिम्बयन्ति । उदाहरणार्थ, चतुरङ्ग युद्धनीतेः, राजनीतेः च प्रतीकमस्ति । अयं खेलः रणनीतिकचिन्तनस्य, दूरदर्शितायाः चं विकास करोति । कर-बधीक्रीडा (kabaddi), खो-खो क्रीडा (kho-kho) इत्यादयः ग्रामीणक्रीडाः शारीरिकस्वास्थ्यस्य, सामूहिकभावनायाः च पोषण कुर्वन्ति। क्रीडामाध्यमेन बालकाः सहयोगस्य, न्यायस्य, अनुशासनस्य च महत्त्वं बोढुं समर्था भवन्ति । एतेन तेषां व्यक्तित्वविकासः, नेतृत्वगुणानां विकासः, शारीरिकप्रबन्धनक्षमता च वर्धते। क्रीडाः समाजस्य विभिन्त्रवर्गान् एकीकृत्य सामाजिकसद्भावनां वर्धयन्ति। आधुनिककाले पारम्परिकक्क्रीडानां महत्त्वं क्रमशो हासं याति। तथापि, एतासां क्रीडानां संरक्षणं, प्रोत्साहनं च भारतीयज्ञान परम्परायाः संरक्षणाय अत्यावश्यकम्। शालासु, महाविद्यालयेषु च एतासां क्रीडानां समावेशः कर्तुं शक्यते । सर्वकारेण, स्वयंसेवासंस्थाभिः च एतदर्थं प्रयासाः क्रियन्ते। अद्यतनसमाजोऽत्यन्तं दूरवाणीकेन्द्रिकः। विशेषतः, बालाः सर्वे एतया संक्रामिता भवन्ति। सर्वेऽचुना Reels, Video-games, Facebook- चेत्यादिषु भीषणतया निमग्राः। Video-games- इत्यस्य दूरवाण्यामनायाससुलभत्वात् बाला सर्वे अस्माके सांस्कृतिकपरम्पराः विस्मरन्तः आसन्। पूर्वोक्तक्रीडाः प्रति आग्रहास्तेषां विनष्टा जाताः । एतत्क्रीडापरम्परासंरक्षणात् एताः क्रीडाः प्रति वालानामाग्रहो वर्धितो भविष्यति तथा पुनरेकसास्थसुन्दरसमाजगठनं भविष्यति-इत्येवमाशयः । निष्कर्षरूपेण वक्तुं शक्यते यत् एषा परम्परा न केवले शारीरिकमानसिकस्वास्थ्य वर्धयति, अपि तु सांस्कृतिकमूल्यानां, परम्पराणां च संरक्षणमपि करोति । अतः भारतीयसमाजस्य सर्वाङ्गीणविकासाय क्रीडापरम्परायाः संरक्षणं, संवर्धनं च अत्यन्तमावश्यकम् ।. संकेतशब्दाः (Keywords): क्रीडापरम्परा, भारतीयज्ञानपरम्परा, वैदिककालः, मध्यकालः, महाकाव्यकालः, मौर्यकालः, गुप्तकालः, आधुनिककालः, सामाजिकसांस्कृतिकप्रभावी, पारम्परिकक्रीडा

